📚 श्रीमद्भागवतम् (यदुपत्याटीका) - स्कन्धः १
Page 1
Download 📥
________________ 1 1 भगवद्भादरायणप्रणीतम् श्रीमद्भागवतम् प्रथमः स्कन्धः अथ प्रथमोऽध्यायः ॐ नमो भगवते वासुदेवाय जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदाय आदिकवये मुह्यन्ति यं सूरयः । तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धामा स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ १ ॥ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः श्रीमद्भागवततात्पर्यनिर्णयः ॐ श्रींमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः || सृष्टिस्थित्यप्ययहानियतिदृशितमोबन्धमोक्षाश्च यस्माद् अस्य श्रीब्रह्मरुद्रप्रभृति सुरनरव्यीशशत्र्वात्मकस्य । विष्णोर्व्यस्ताः समस्ताः सकलगुणनिधिः सर्वदोषव्यपेतः पूर्णानन्दोऽव्ययो यो गुरुरपि परमश्चिन्तये तं महान्तम् ॥ I जन्माद्यस्येत्यादि । तं परं धीमहि । अन्वयात् । 'यतो वा इमानि भूतानि जायन्त' इत्यादिश्रुतिस्मृतिभ्यः । इतरतः तर्कः । चेतनाद्वि पित्रादेः पुत्रादिरुत्पद्यते । अभिज्ञः सर्वज्ञः । अतो युज्यते । ' यं कामये तं तमुग्रं कृणोमि' । ' मम योनिरि' त्यन्येषां तदपेक्षत्वात् । न चान्यापेक्षोऽसौ | स्वराट् । कुतः । तेने ब्रह्म हृदा य आदिकवये । स हि 'विश्वा जातानि परिता बभूव' । नान्यः । हृदा स्नेहेन । 'यो ब्रह्माणं विदधाति पूर्वमिति च । आत्मत एव हि तस्य बुद्धिप्रकाशः । न च प्रसादं बिना ज्ञातुं शक्यः । मुह्यन्ति यं सूरयः । न च तृप्तः प्रवर्तते । किन्तु मृषा वृथैव । भित्वा मृषाश्रुरितिवत् । ' देवस्यैष स्वभावोऽयमिति । यत्रेतिविशेषणान्नान्यत्र । स्वविषय एव वृथा । जीवेश्वरजडानां सर्गस्त्रिसर्गः । एकस्य तेजसो बहुत्ववदीश्वरसर्गः ।